वांछित मन्त्र चुनें

सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ । र॒यिं च॑ पु॒त्राँश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥

अंग्रेज़ी लिप्यंतरण

somo dadad gandharvāya gandharvo dadad agnaye | rayiṁ ca putrām̐ś cādād agnir mahyam atho imām ||

पद पाठ

सोमः॑ । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये॑ । र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥ १०.८५.४१

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:41 | अष्टक:8» अध्याय:3» वर्ग:28» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:41


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोमः गन्धर्वाय ददत्) सोम-रजोधर्म रश्मिधर्मवाले सूर्य के लिये देता है (गन्धर्वः-अग्नये) रशिमधर्मवाला सूर्य वैवाहिक अग्नि के लिये देता है (अग्निः-रयिं च पुत्रान् च) वैवाहिक अग्नि पुत्रों को, जो कि पिता के धन हैं और (इमां मह्यम्-अदात्) इस पत्नी को मेरे लिये देता है ॥४१॥
भावार्थभाषाः - चन्द्र सूर्य अग्नि देवताओं के गुण एक-दूसरे के उत्तरोत्तर करने में आते हैं, पुनः उन गुणों से सम्पन्न कन्या और पुत्रधन पति के लिये नियत हो जाता है ॥४१॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोमः-गन्धर्वाय ददत्) सोमो रजोधर्मः सूर्याय रश्मिधर्माय तेजोधर्माय प्रयच्छति (गन्धर्वः-अग्नये) सूर्यो रश्मिधर्मोऽग्नये वैवाहिकाग्नये ददाति (अग्निः-रयिं च पुत्रान् च-इमां च मह्यम्-अदात्) वैवाहिकाग्निर्मह्यं पत्नीमिमां पुत्रान् तत्पितृधनं ददाति ॥४१॥